Posts

Showing posts from March, 2022

Prana vidya

  प्राणविद्या - कौषीतकि-ब्राह्मणानुसारेण एकमध्ययनम् ၊ " दृश्यते अनया प्रपञ्चतत्वम् इति दर्शनम् ၊ " भारतीय दर्शनस्य अटिस्थानमेव उपनिषत् ၊ " उपनिषद्यते प्राप्यते ब्रह्मविद्या अनया " इति उपनिषद् निर्वचनम् ၊ अनेकाः उपनिषदः अस्ति चेदपि प्रधानतया अष्टोत्तरशत उपनिषदेव प्रसिद्धम् ၊ तासु उपनिषत्‍सु अन्यतमा भवति कौषीतकि बाह्मणोपनिषत् ၊ कौषीतकि ब्राह्मणोपनिषद् ऋग्वेदान्तर्गता चतुर्षुअध्यायेषु उपनिबद्धा महीयते ၊ अस्याः अध्यायाः  पर्यङ्कविद्या प्राणविद्या प्रतर्द्दनविद्या बालाकीविद्या च भवन्ति ၊   ब्रह्मविद्यात्वेन प्रसिद्धासु विद्यासु , पर्यङ्कविद्या , बालाकिविद्या , प्रतर्द्दनविद्या इति तिस्रः प्रधान ब्रह्मविद्याः , तथा कौषीतकि-पैङ्‌ग्य-शुष्क-भृङ्‌गारैः प्रधानतया दर्शिताः , प्राणविद्या अपि निदर्शितास्सन्ति ၊ अग्निहोत्रादीन्यश्वमेधान्तानि कर्माणि तैजसस्यान्तःकरणस्य शुद्धि हेतवो विविदिषासाधनत्वस्य श्रुतितोऽप्यवामात् , स्वर्गादे: कर्मफलस्य सुखविशेष रूपत्वात्तस्य चान्तःकरणप्रसादापरपर्यायत्वात्कर्मिभिरपि कर्मणामन्तःकरणशुद्धिहेतुत्वमङ्‌गीकृतं यतस्ततस्तानि महता सन्दर्भेण प्रथमतोऽभिधा...