Prana vidya

 प्राणविद्या - कौषीतकि-ब्राह्मणानुसारेण एकमध्ययनम् ၊


" दृश्यते अनया प्रपञ्चतत्वम् इति दर्शनम् ၊ "

भारतीय दर्शनस्य अटिस्थानमेव उपनिषत् ၊ " उपनिषद्यते प्राप्यते ब्रह्मविद्या अनया " इति उपनिषद् निर्वचनम् ၊ अनेकाः उपनिषदः अस्ति चेदपि प्रधानतया अष्टोत्तरशत उपनिषदेव प्रसिद्धम् ၊ तासु उपनिषत्‍सु अन्यतमा भवति कौषीतकि बाह्मणोपनिषत् ၊

कौषीतकि ब्राह्मणोपनिषद् ऋग्वेदान्तर्गता चतुर्षुअध्यायेषु उपनिबद्धा महीयते ၊ अस्याः अध्यायाः 

  • पर्यङ्कविद्या

  • प्राणविद्या

  • प्रतर्द्दनविद्या

  • बालाकीविद्या च भवन्ति ၊ 

 ब्रह्मविद्यात्वेन प्रसिद्धासु विद्यासु , पर्यङ्कविद्या , बालाकिविद्या , प्रतर्द्दनविद्या इति तिस्रः प्रधान ब्रह्मविद्याः , तथा कौषीतकि-पैङ्‌ग्य-शुष्क-भृङ्‌गारैः प्रधानतया दर्शिताः , प्राणविद्या अपि निदर्शितास्सन्ति ၊

अग्निहोत्रादीन्यश्वमेधान्तानि कर्माणि तैजसस्यान्तःकरणस्य शुद्धि हेतवो विविदिषासाधनत्वस्य श्रुतितोऽप्यवामात् , स्वर्गादे: कर्मफलस्य सुखविशेष रूपत्वात्तस्य चान्तःकरणप्रसादापरपर्यायत्वात्कर्मिभिरपि कर्मणामन्तःकरणशुद्धिहेतुत्वमङ्‌गीकृतं यतस्ततस्तानि महता सन्दर्भेण प्रथमतोऽभिधायेदानीं ब्रह्मविद्यां वक्तुं लब्धावसरा श्रुतिः प्रववृत्‍ते ၊ तत्र चित्रो ह वैगार्ग्यायणिरित्‍यादिका य एवं वेदेत्यन्ता चतुरध्यायी कौषीतकिब्राह्मणोपनिषत् ၊

 आद्येनाध्यायेन पर्यङ्कविद्यां सदक्षिणोत्तरमार्गान्तां द्वितीयेन प्राणविद्यां तद्विदश्च बाह्याध्यात्मिकानि कर्माणि फलविशेषसिद्धये तृतीयचतुर्थाभ्यां चाऽऽत्‍मविद्यामाह ၊ यद्यपि प्रतर्दनाे हेत्यादिकमेव प्रथमतः पठनीयं तथाऽपि शुद्धमप्यन्तःकरणं निर्गुणे ब्रह्मण्यभयेऽपि प्रथमतो ब्रह्मस्वभावमजानद्भयमाप्नुयात् ၊ गर्भस्थप्रोषितपितृको युवेव सद्वृत्तस्थः प्रथमतः पितृदर्शने ၊ ततोऽस्य भयनिरासार्थमुत्तरमार्गाप्यमेतल्लोकस्थराजादिवद् ब्रह्मलोकस्थं सगुणं ब्रह्म प्रथमतः उक्तवती ၊ तत्र च स आगच्छत्यमितौजसं पर्यङ्कम् ၊ स प्राण इति प्राणस्य पर्यङ्कत्वं प्रथमेऽध्याय उक्तम् ၊ तस्मिन्प्राणे भवति श्रोतृणां जिज्ञासा किमयं श्वासमात्रः प्राण आहोस्विद्विविधभूतिजुष्ट इति ၊ अस्या जिज्ञासायाः निवृत्‍त्यर्थं प्राणोपासनं द्वितीयेनाध्यायेनोपक्रान्तम् ၊ तृतीयाध्याये प्रतर्द्दनविद्या निर्दिश्यते ၊ इयं हि प्राणेन्दशरीरकपरमात्मोपासनैवेति प्रकाशिकाकाराः वदन्ति ၊ चतुर्थाध्याये बालाकिविद्या च प्रतिपादयति ၊

Comments