वैदिक वैदुष्यस्य स्त्रैणभावविमर्श:
वैदिक वैदुष्यस्य स्त्रैणभावविमर्श:
यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवता।
यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफला: क्रिया:।। (मनुस्मृति)
स्त्रिय: ईश्वरस्य अतभुतकृतिरेव सर्वजगदुत्पत्या सह ईस्वरेण स्त्रीणां सृष्टि: अभवत्।मानवजीवनस्य प्रारंभ: मातृहस्तात् एव। मातृस्थानस्य महनीयतां तस्य गौरवतां च सहर्षं क्षमया,सहनशीलतया,त्यागमनोबुध्या, सर्वोपरि वात्सल्येन च ता: सवीकुर्वन्ति।तथैव श्रुति: ' मातृदेवो भव इति। ममताया: मूर्तिमत्भाव एव स्त्री। सा अग्निरिव ज्वलति ,दुर्गेव शौर्यं आवहति, हिमकणिका इव द्रवति च। सर्वंसहा सा स्वीयकर्तव्यनिर्वहणे समर्था।वेदकालादारभ्य स्त्रीणां राष्ट्रीयसामूहिक धार्मिक कार्येषु यादृशी अधिकारिता पुरुषस्य आसीत् तादृशी एव स्त्रीष्वपि वा इति अवकाशो न वर्तते। श्रुतिः स्त्रीपुरुषौ समौ कृत्वैव कर्तव्यानि विधत्तानि
वेदेषु तु स्त्रीणां महनीयं स्थानं अस्ति ၊ स्त्री च पुरुषश्च समुदायरथस्य तथा राष्ट्रीय रथस्य च चक्रद्वयम् भवति ၊
एकेन चक्रेण रथः पुरतो यथा न गच्छति स्त्रीपुरुषां परस्पराश्रयतां
विना जीवितयात्रायै समर्थो स्याताम्।।
यघप्येतयो: रुपभवौ मातृ पुत्र भ्रातृ स्वसृ पति पत्नी प्रभृतिभिर्भेदैः
अन्योन्यभिन्नौ स्तः तथापि कर्ममण्डले अर्धनारीश्वराविव परस्परपूरितौ सन्तौ इमौ प्रकाशेते ၊पुरुषः कर्मचेत् स्त्री ज्ञानं भवति ၊ ज्ञानपूर्णेन कर्मणा स्त्रीपुरुषौ सर्गक्रियासु संयुज्यते ၊
ज्ञानं तु यज्जानाति चराचरं जगत्तज्ञानं इति၊ यः चराचरं जगत् संपूर्णं जानाति स सर्वज्ञ: ईश्वर: ज्ञानस्वरूप इति कीर्तितः। उत्कृष्टं ज्ञानमेव परमपुरुषार्थसाधनम्၊ तस्यात्मज्ञानस्य आर्जनाय सर्वाणि विद्या स्थानानि प्रवर्तन्ते၊ 'विद्यया अमृतमश्नुते' इति၊ तदेवोच्यते अत्र अमृत शब्देन ' सत्यं-ज्ञान-अनन्तख्या ' ब्रह्मोपलब्धि: वर्ण्यते। अस्य ब्रह्मण: साक्षात् ज्ञानं उपनिषत्स्वेव उपलभ्यते၊
अस्य अधिकारिलक्षण विचारे एवं लक्ष्यते-
'अधिकारि तु विधवदधीतवेदवेदाङ्गत्वेनापाततोऽधिगताखिलवेदार्थोऽस्मिन् जन्मनि जन्मान्तरे वा काम्यनिषिद्धवर्जनपुरःसरं नित्यनैमित्तिक प्रायश्चित्तोपासनानुष्ठानेन निर्गतनिखिल कल्मषतया नितान्त निर्मल स्वान्तः साधन चतुष्टय-सम्पन्न: प्रमाता ' इति၊ अत्र केचन वेदाध्ययनाय स्त्रीणां अधिकारिता न भवतीति भणन्ति स्म၊ मध्यकालीनाः एते कुबुद्धयः प्रमाणाभासानां साहाय्येन बहुकालपर्यन्तं स्त्रियः वेदविज्ञानात् दुरे स्थापयामास၊ ' स्त्री शूद्रद्विज बन्धुनां त्रयी न श्रुतिगोचरा '၊ इति प्रमाण्यवचनं निर्धार्य स्त्रीणां वेदाध्ययन विरोधित्वं कैरपि समर्थितम् ၊ अयं कुवादः श्रुति प्रामाणेनैव प्रतिषेद्धुं शक्यः၊
" यथेमां वाचं कल्याणीमावदानि
जनेभ्य: ब्रह्मराजन्नाभ्यां
शूद्राय चार्याय च स्वाय चारणाय च၊၊ " (यजु: २६.२)
अतः सर्वेषामपि जनानां वेदाध्ययने अधिकारः भवतीति सिद्धम् ၊ "भिन्नरुचिर्हि लोकः " इति कवि वाक्यवत् सर्वे जनाः धिया विभिन्नगुणाः वर्तन्ते ၊ तथापि शेमुषी सवैष्वपि समानैव प्रकाशते ၊ सामान्य जनेषु ग्रहण पटुताया: अत्यन्तपारतम्यं न दृश्यते ၊ अत एव श्रुति: शिक्षा याः अवसरः अधिकारश्च सर्वेभ्यो प्रायच्छत् ၊ शूद्रा एव स्मृतिभि: शिक्षामण्डलात् बहिष्कृता: भवन्ति ၊ तस्य हेतवः समीक्षितव्या: भवन्ति ၊यद्यपि पुरुषाः एव इतिहासे वेदाध्ययनाध्यापनेषु प्रामुख्येन प्रवृत्ता: तथापि स्त्रियः न ततो विमुखा: आसन्निति ज्ञातुं शक्यते ၊ श्रुत्यामेव वैदुष्यस्य मकुटायमानाः स्त्रिय: प्रतिपादिता: भवन्ति ၊ विद्या शब्द एव स्त्रीलिंगे प्रयुक्तः ၊ स्त्रीणां पारिवारिक-सामाजिक दायित्वादिभिः हेतुभिः ताः वेदादेः अध्ययनाध्यापनादिषु न केन्द्रीकृता: आसन्नित्येव ज्ञेयम् ၊ वेदप्रचार: पुरुषेषु कियत् प्राधान्यं अर्हति स्म तावदेव प्राधान्यं स्त्रीणां दायित्वमप्यर्हदासीत् ၊ तादृशे दायित्वभारे सत्यपि विद्याविशारदानां ऋषिकाणां ब्रह्मवादिनीनाञ्चोल्लेखः अवसरेऽस्मिन् श्रद्धया अध्येतव्याः भवन्ति ၊
वेद संहितायां प्रतिपादितानि महिलारत्नानि ၊
श्रुति प्रसिद्धा: वैदुष्यशालिन्य: स्रियः बह्वयः सन्ति၊ तासु मानवरूपमापन्ना: गार्गी, मैत्रेयी इत्याद्या: पुरुषानप्यतिक्रान्ताः भवन्ति ၊ वादे याज्ञवल्क्यादीन् ऋषीनपि ऊनप्रभावान् विधातुं ताः शक्ताः आसन्निति श्रुत्यैव समर्थ्यते ၊ अन्याः तु काश्चन देवताभावमापन्नाः विद्यास्वरूपिण्यः भवन्ति ၊ विद्या वैदुष्यञ्च सदैव स्त्रीत्वेन निरूप्येते इत्यनेनावगन्तुं शक्यते ၊ शिक्षायाः स्त्रीत्वस्य प्रतिपादिका: काश्चन स्त्रिय: अत्र निरूप्यन्ते ၊
सरस्वती ၊
विद्यायाः अधिदेवतारूपेण सरस्वतीं वर्ण्यते ၊ वेदाः ' सरस्वती ' संज्ञया स्त्रियः स्तुवन्ति ၊ सरस्वती शब्दः विद्या, वाणी, नदी, नाडी इत्यादिष्वर्थेषु पण्डितैः प्रयुक्तः दृश्यते ၊
" अम्बितमे नदीतमे देवितमे सरस्वती " (ऋग्वेद: २.४१.१६)
अम्बासु नदीषु देवीषु च श्रेष्ठा इत्यर्थः ၊ केषुचित् मन्त्रेषु सरस्वत्याः देवतात्वप्रतिपादनमपि द्रष्टुं शक्यते ၊
" पावका नः सरस्वती,वाजेभिर्
वाजिनीवती, यज्ञं वष्टु धियावसुः॥" (यजुर्वेद:२०.८४)
वाजिनीवती-ज्ञानवती क्रियामयी च ၊ सरस्वती-जलधारेव ज्ञानमयी वाजेभिः- विद्याया: प्रभावे शक्ति रुपिणी, नः पावकाः- या अस्मभ्यं शारीरिकां- मानसिकां- सामाजिकां च पवित्रतां प्रददाति ၊ धियावसु-ज्ञानं सद्कर्म: च मिलित्वा अत्र (एकस्मिन् स्थले) विराजते , बुद्ध्या जीवित सन्धिषु कार्याणि विचिन्तयितुं प्रेरणां ददाति, यज्ञम्-गृहस्थाश्रमंचय ज्ञानयज्ञम् , वष्टु:- मनोधैर्यस्य सञ्चालनप्रक्रिया ၊
तथा अन्यत्र ऋतावरी-मनसा वाचा कर्मणा सत्यमयी, जुुजूषाणा- सेवामनोभावयुक्ता,घृताचि- या यज्ञाग्नौ आहुतिं करोति सा, पारावतघ्नी- तीरद्वयमपि संस्पृश्य प्रवहन्ती नदीव सर्वान् विघ्नान् दूरीकृत्य पुरतो गच्छन्ती शक्तिस्वरुपिणी इत्यर्थः၊ घोरा-शत्रूणां कूराणां कृते घोररूपं प्राप्य यायुद्ध्यति सा, वृतघ्नी- दुष्टाणां शत्रूणां च उन्मूलनाय, हिरण्यवर्तिनी-स्वर्ण व्यवहारिणी, अकवारि- कुत्सितेभ्यः कर्मभ्यः दूरवर्तिनी, यशोभणिनी-यशकीर्त्यादीनां आयतनभूता ၊
" शं सरस्वती सहधीभिरस्तु " (अथर्ववेद: १९.११.२)
श्रेष्ठ ज्ञानस्य श्रेष्ठ कर्मणः च शिक्षणं विद्यां च प्रदाय सर्वेभ्यो मंगलं कुरु इत्यर्थः ၊
कुहू ၊
' कुहु ' इति शब्दस्य यया गोपनीयाः रहस्याः गुप्ताः विधत्ते सेत्यर्थ: ၊ अर्थात् याज्ञिकान् योग्यतायाः आधारेण प्रत्येकं यज्ञेषु नियुनक्ति सा कुहू अथवा देवपत्नी इति नाम्ना विराजते ၊
' कुहू ' पदं वेदे केवलं मन्त्रद्वये एव द्रष्टुं शक्यते,
" कुहुं देवीं सुकृतं विट्मनापसमस्मिन्
यज्ञे सुहवां जोहवीमि၊
सानोरियं विश्ववारां नि यच्छाद्
ददातु वीरं शतदायमुक्थ्यम्၊၊ (अथर्ववेद:७.४७.१)
देवीं सुकृतं विट्मन अपसं, सुहवां कुहूं अस्मिन् यज्ञे जोहवीमि , सा
विश्ववारां रयिं नियच्छाद् शतदयं उक्त्थ्यं वीरं ददातु ၊၊
इन्द्राणि ၊
'शचीदेवी' अथवा देवेन्द्रपत्नी भवति इन्द्राणि ၊ सप्तमातृसंकल्पे काचन भवति इन्द्राणि ၊ देवेन्द्रस्य इव इन्द्राण्याः अपि वाहनं ऐरावतमेव ၊ इन्द्राण्याः भरणनिपुणता, तस्याः बुद्धि सामर्थ्यं च श्रद्धेये स्तः ၊ ऐन्द्री इति संज्ञया शचीदेवीं प्रस्तूयते ၊ शचीपदेन संबद्ध्य इन्द्रः अपि श्रुतिषु प्रतिपाद्यते ၊ यथा शचीवत् , शचीपती , शचीन्द्रः इत्त्येवम् ၊शच्याः पतिस्थानं तु इन्द्रस्यालङ्कारः एवेत्यतः तस्याः श्रेष्ठता वेदैः निगद्यते ၊ सा श्रेष्ठता शच्याः विद्वत्तया प्राप्तेति गम्यते ၊
सरमा ၊
सरमा देवशुनी अस्ति ၊ यदा पणिनः अंगिरसस्य गावः अपहृतवन्तः तदा देवेन्द्रः सरमां आहूय पणिनां गुप्तग्राममन्विष्य गवां प्रत्यानयनाय सुविधामाधातुं न्यमन्त्रयत्၊ सा तु आत्मनः अपत्येभ्यः क्षीराय प्रार्थयत् ၊ अनन्तरं सा गाम् अन्विष्य पणिनां सांन्निध्यं यत्र वर्तते तं स्थानं प्राप्तवती ၊ तेषां पणिनां प्रलोभनान्यतिजीव्य सा इन्द्राय तान् न्यवेदयत् ၊ इन्द्रस्तु गावः प्रत्यानिनाय च ၊ अनन्तरं तस्याः प्रार्थनानुसारेण अंगिरसादीनां प्रेरणाय च सा देवशुनी पुत्रेभ्यः दुग्धादीन् प्रायच्छत् ၊ अत्र पणिनां प्रलोभनानि श्रुत्वा तेष्वात्मानमवरागां विधाय यानि तया उक्तानि वचांसि , तानि तस्याः विद्वत्तायाः सूचकानि भवन्ति ၊
उपनिषदि प्रतिपादिताः ब्रह्मवादिन्यः ၊
वेदसंहितायां प्रतिपादिताः श्रेष्ठाः महिलाः एव उपनिषदि अपि ब्रह्मवादिन्यः पाण्डित्ययुक्ताः स्त्रियः अस्ति ၊
गार्गी वचक्नवी ၊
गार्गी वचक्नवी ब्रह्मवादिनी अस्ति၊ ब्रह्मविद्यायाः ज्ञानं तस्याः प्रसिद्धं अस्ति ၊ बृहदारण्यकोपनिषदि षष्ठे अष्टे च ब्राह्मणे तस्याः नाम श्रद्धेयमस्ति ၊ तत्र ब्रह्मयज्ञे याज्ञवल्क्येन सह गार्ग्याः संवादः एवं प्रतिपादितमस्ति ၊
" अथ वचक्नवी गार्गी एनं पप्रच्छ ह याज्ञवल्क्येति उवाच ह इदं सर्वं अप्सु ओतं प्रोतं च यदि आपः कस्मिन् नु खलु ओताः च प्रोताः च ၊"
गार्ग्याः प्रश्नः अतिप्रश्न: भवतीति याज्ञवल्क्येन उक्तम् , अत्र प्रतिपादिताः सर्वेलोक्यः प्राणिनां उपभोगाय पञ्चभूतसंघातेन उद्भूता: सन्ति ၊ विराट् पुरुषस्य शरीरादारब्धाः एते भूता: प्रजापत्या हिरण्यगर्भलोके प्रयुक्ताः ၊ ततः परं किमभवदित्यस्मिन् न कापि गति: ၊ तत्तु आगमेन हि ज्ञातुं शक्यते ၊ तां देवतां प्रति प्रश्नः गार्ग्याः पृष्टः इत्यतः एव याज्ञवल्क्यः अतिप्रश्नं इति उवाच ၊ आगमेन प्रष्टव्या देवता अनुमानेन ज्ञातुं जिज्ञासया सा पृच्छति इति दोष:
अष्टे ब्राह्मणे याज्ञवल्क्यः गार्ग्या पृच्छते ၊ -
" सा उवाच ह याज्ञवल्क्य यत् दिवः ऊर्ध्वं यत् पृथिव्याः अवाक् यत् इमे द्यावापृथिवी अन्तरा यत् भूतं च भवत् च भविष्यत् च इति अचक्षते तत् कस्मिन् ओतं च प्रोतं च " इति ၊
सः आकाशे तदोतं च प्रोतं चेति याज्ञवल्क्य: प्रत्युवाच ၊ तस्य तत्त्वस्य दृढीकरणार्थं गार्गी एकवारमपि तदेव प्रश्नं पृच्छति ၊ अनन्तरं " कस्मिन्नु खलु आकाश ओतश्च प्रोतश्चेति संशयं उक्तवती ၊ तदा याज्ञवल्क्यः अक्षरस्य निराकारस्य ब्रह्मणः तत्त्वं विशदीकृतवान्၊ तच्छ्रुत्वा एव वचक्नवी वादात् उपरमति ၊
मैत्रेयी (सुलभा ) ၊
याज्ञवल्क्यस्य मैत्रेयी कात्यायनी च द्वे भार्ये बभुवतः ၊ तयोः ह मैत्रेयी ब्रह्मवादिनी बभूव ၊ याज्ञवल्क्यस्य संन्न्यासार्थं प्रस्थानसमये मैत्रेयी उवाच -
" यन्नु म इयं भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात् , स्यां न्वहं तेनामृताहो ၊ नेति नेति " इति ၊" यथैवोपकरणवतां जीवितं तथैव ते जीवितं स्यात् अमृतत्वस्य तु नाशास्ति वित्तेनेति " इति याज्ञवल्क्य प्रतिवचनं दत्तवान् ၊ अनन्तरं सा ह उवाच मैत्रेयी येन अहं नामृता स्यां किमहं तेन कुर्यां इति प्रश्नं पृष्टवती तदा याज्ञवल्क्यः अविनाशिनः आत्मानः स्वरूपं निरूपितवान् ၊ आत्मदर्शनमेव अमृतत्वसाधकं इति सन्दिस्य याज्ञवल्क्यः प्रस्थापयामास ၊
उपसंहारः ၊
ज्ञानस्याधारेणैव मनुष्याणां पाण्डित्यस्य निर्णय: क्रियते न तु लिंगभेदेन ၊ मानवानां मेधाशक्तिः स्त्रैणभावमाश्रित्य स्थितेति श्रुतिभिः गम्यते ၊ तत्रैव अर्धनारी संकल्पस्य साङ्गत्यं अस्ति ၊ मानवस्य बौद्धिकस्तरः अर्धनारीश्वरसंकल्पेन सदृशः भवति ၊ मस्तिष्के अर्धगोलद्वयमस्तीति क्वचित् उच्यते ၊ मस्तिष्कस्य वामदक्षिण भागौ कर्मकारकत्वेन प्रथितौ ၊ शैव-शाक्तेयादीनां तान्त्रिकानां मते अनेन शिवशक्त्यैक्यं प्रदर्श्यते ၊ एवं भागद्वयस्य संयोजनेनैव कार्याणि सुगमानि भवन्ति ၊
पाण्डित्यस्य विषये अपि एतादृश: भेदः द्रष्टुं शक्यते ၊ आत्मविद्या गुह्यतमेति उपनिषत्सु श्रूयते ၊ तादृशीनां गुह्यानां विद्यानामधृष्ठातृदेवता स्त्रैणभावमापन्ना सरस्वतीप्रभृतयः इति च वेदेषु दृश्यते ၊ अतः गुह्यतमानां विद्यानां अवगमने प्रदाने च स्त्रीणां सामर्थ्यमधिकारं भवतीति श्रुतीनां मतम् ၊ तस्याः विद्यायाः प्रसारे एवं पुंसां दायित्वमस्तीति च ၊ एवं वैदुष्यस्य स्त्रैणभावः सुतरां वर्तते इत्यस्मिन् प्रसिद्धानि निदर्शनानि वेदे एव सन्तीत्युच्यते ၊
तत्र सूचिता सरस्वती विद्यायाः वा परा देवता भवति ၊ ज्ञानस्य स्त्रैणता एतेनैव स्पष्टा भवति ၊ अनन्तरं कुहू वेदे अस्ति ၊ इन्द्राणी भरण नैपुण्येन , पाण्डित्येन , वाक्चातुर्यतया च देवलोके स्वकीयं स्थानं अलड्करोति ၊ सरमा यद्यपि देवशुनी तथापि पाण्डित्येन सत्यसन्धतया च अग्रिमस्था बभूव ၊गार्गी मैत्रेयी तु ब्रह्मवादिन्यौ स्तः ၊ एवं वैदुष्यं लोके यत्र विलसते तत्र तस्य पराकाष्ठायां स्त्रीणां सान्निध्यं प्रसिद्धमेवेत्यतः धीः विद्या च स्त्रियसाक्षित्वेनैव विस्तृतेति संगृह्यते ၊
Reference
मनुस्मृति
Prof.N.Gopinadhan Nair
May2001
Vidyarambham Publishers Mullakkal, Alappuzha
108 Upanishad
सत्यार्थप्रकाशम्
Swami Dayananda Saraswathy
वेदान्तसारः
Sadanandan
Bhagavadgeeta
Yajurveda
ऋग्वेदभाषा भाष्यम्
OMC Narayanan Nambudiripad
February1982
Vadakke madham brahmswom , MG Road Trichur
Comments
Post a Comment