Posts

वैदिक वैदुष्यस्य स्त्रैणभावविमर्श:

  वैदिक वैदुष्यस्य स्त्रैणभावविमर्श : यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवता। यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफला: क्रिया:।। (मनुस्मृति) स्त्रिय: ईश्वरस्य अतभुतकृतिरेव सर्वजगदुत्पत्या सह ईस्वरेण स्त्रीणां सृष्टि: अभवत्।मानवजीवनस्य प्रारंभ: मातृहस्तात् एव। मातृस्थानस्य महनीयतां तस्य गौरवतां च सहर्षं क्षमया,सहनशीलतया,त्यागमनोबुध्या, सर्वोपरि वात्सल्येन च ता: सवीकुर्वन्ति।तथैव श्रुति: ' मातृदेवो भव इति। ममताया: मूर्तिमत्भाव एव स्त्री। सा अग्निरिव ज्वलति ,दुर्गेव शौर्यं आवहति, हिमकणिका इव द्रवति च। सर्वंसहा सा स्वीयकर्तव्यनिर्वहणे समर्था।वेदकालादारभ्य स्त्रीणां राष्ट्रीयसामूहिक धार्मिक कार्येषु यादृशी अधिकारिता पुरुषस्य आसीत् तादृशी एव स्त्रीष्वपि वा  इति अवकाशो न वर्तते। श्रुतिः स्त्रीपुरुषौ समौ कृत्वैव कर्तव्यानि विधत्तानि वेदेषु तु स्त्रीणां महनीयं स्थानं अस्ति ၊ स्त्री च पुरुषश्च समुदायरथस्य तथा राष्ट्रीय रथस्य च चक्रद्वयम् भवति ၊ एकेन चक्रेण रथः पुरतो यथा न गच्छति स्त्रीपुरुषां परस्पराश्रयतां विना जीवितयात्रायै समर्थो स्याताम्।। यघप्येतयो: रुपभवौ मातृ पुत्र भ्रातृ स्व...

Prana vidya

  प्राणविद्या - कौषीतकि-ब्राह्मणानुसारेण एकमध्ययनम् ၊ " दृश्यते अनया प्रपञ्चतत्वम् इति दर्शनम् ၊ " भारतीय दर्शनस्य अटिस्थानमेव उपनिषत् ၊ " उपनिषद्यते प्राप्यते ब्रह्मविद्या अनया " इति उपनिषद् निर्वचनम् ၊ अनेकाः उपनिषदः अस्ति चेदपि प्रधानतया अष्टोत्तरशत उपनिषदेव प्रसिद्धम् ၊ तासु उपनिषत्‍सु अन्यतमा भवति कौषीतकि बाह्मणोपनिषत् ၊ कौषीतकि ब्राह्मणोपनिषद् ऋग्वेदान्तर्गता चतुर्षुअध्यायेषु उपनिबद्धा महीयते ၊ अस्याः अध्यायाः  पर्यङ्कविद्या प्राणविद्या प्रतर्द्दनविद्या बालाकीविद्या च भवन्ति ၊   ब्रह्मविद्यात्वेन प्रसिद्धासु विद्यासु , पर्यङ्कविद्या , बालाकिविद्या , प्रतर्द्दनविद्या इति तिस्रः प्रधान ब्रह्मविद्याः , तथा कौषीतकि-पैङ्‌ग्य-शुष्क-भृङ्‌गारैः प्रधानतया दर्शिताः , प्राणविद्या अपि निदर्शितास्सन्ति ၊ अग्निहोत्रादीन्यश्वमेधान्तानि कर्माणि तैजसस्यान्तःकरणस्य शुद्धि हेतवो विविदिषासाधनत्वस्य श्रुतितोऽप्यवामात् , स्वर्गादे: कर्मफलस्य सुखविशेष रूपत्वात्तस्य चान्तःकरणप्रसादापरपर्यायत्वात्कर्मिभिरपि कर्मणामन्तःकरणशुद्धिहेतुत्वमङ्‌गीकृतं यतस्ततस्तानि महता सन्दर्भेण प्रथमतोऽभिधा...